ब्रह्माण्डविजयं नाम दुर्गाकवचम्
〰〰🌼〰🌼〰🌼〰〰
नारायण उवाच
〰〰〰〰〰
श्रृणु नारद वक्ष्यामि दुर्गायाः कवचं शुभम् ।
श्रीकृष्णेनैव यद् दत्तं गोलोके ब्रह्मणे पुरा ।।१
ब्रह्मा त्रिपुर-संग्रामे शंकराय ददौ पुरा ।
जघान त्रिपुरं रुद्रो यद् धृत्वा भक्तिपूर्वकम् ।।२
हरो ददौ गौतमाय पद्माक्षाय च गौतमः ।
यतो बभूव पद्माक्षः सप्तद्वीपेश्वरो जयी ।।३
यद् धृत्वा पठनाद् ब्रह्मा ज्ञानवाञ्छक्तिमान् भुवि ।
शिवो बभूव सर्वज्ञो योगिनां च गुरुर्यतः ।।
शिवतुल्यो गौतमश्च बभूव मुनिसत्तमः ।।४
ब्रह्माण्डविजयस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च गायत्री देवी दुर्गतिनाशिनी ।।५
ब्रह्माण्डविजये चैव विनियोगः प्रकीर्तितः ।
पुण्यतीर्थ च महतां कवचं परमाद्भुतम् ।।६
ॐ ह्रीं दुर्गतिनाशिन्यै स्वाहा मे पातु मस्तकम् ।
ॐ ह्रीं मे पातु कपालं च ॐ ह्रीं श्रीमिति लोचने ।।७
पातु मे कर्णयुग्मं च ॐ दुर्गायै नमः सदा ।
ॐ ह्रीं श्रीमिति नासां मे सदा पातु च सर्वतः ।।८
ह्रीं श्रीं ह्रूमिति दन्तानि पातु क्लीमोष्ठयुग्मकम् ।
क्रीं क्रीं क्रीं पातु कण्ठं च दुर्गे रक्षतु गण्डकम् ।।९
स्कन्धं दुर्गविनाशिन्यै स्वाहा पातु निरन्तरम् ।
वक्षो विपद्विनाशिन्यै स्वाहा मे पातु सर्वतः ।।१०
दुर्गे दुर्गे रक्षिणीति स्वाहा नाभिं सदावतु ।
दुर्गे दुर्गे रक्ष रक्ष पृष्ठं मे पातु सर्वतः ।।११
ॐ ह्रीं दुर्गायै स्वाहा च हस्तौ पादौ सदावतु ।
ॐ ह्रीं दुर्गायै स्वाहा च सर्वांगं मे सदावतु ।।१२
प्राच्यां पातु महामाया आग्नेय्यां पातु कालिका ।
दक्षिणे दक्षकन्या च नैऋत्यां शिवसुन्दरी ।।१३
पश्चिमे पार्वती पातु वाराही वारुणे सदा ।
कुबेरमाता कौबेर्यामैशान्यामीश्वरी सदा ।।१४
ऊर्ध्वे नारायणी पातु अम्बिकाधः सदावतु ।
ज्ञाने ज्ञानप्रदा पातु स्वप्ने निद्रा सदावतु ।।१५
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।
ब्रह्माण्डविजयं नाम कवचं परमाद्भुतम् ।।१६
सुस्नातः सर्वतीर्थेषु सर्वयज्ञेषु यत् फलम् ।
सर्वव्रतोपवासे च तत् फलं लभते नरः ।।१७
गुरुमभ्यर्च्य विधिवद् वस्त्रालंकारचन्दनैः ।
कण्ठे वा दक्षिणे बाहौ कवचं धारयेत्तु यः ।।१८
स व त्रैलोक्यविजयी सर्वशत्रुप्रमर्दकः ।
इदं कवचमज्ञात्वा भजेद् दुर्गतिनाशिनीम् ।।१९
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ।।२०
कवचं काण्वशाखोक्तमुक्तं नारद सुन्दरम् ।
यस्मै कस्मै न दातव्यं गोपनीयं सुदुर्लभम् ।।२१ ।।
इति श्रीब्रह्म-वैवर्ते ब्रह्माण्ड-विजयं नाम दुर्गा-कवचं सम्पूर्णम्।।
(गणपतिखण्ड। ३९। ३-२३)
〰〰🌼〰〰🌼〰〰🌼〰〰🌼〰〰🌼〰〰
जय माता दी
No comments:
Post a Comment
im writing under "Comment Form Message"